(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.172. अध्यायः 172
Mahabharata - Adi Parva - Chapter Topics
ब्राह्मण प्रति तत्पत्नीवाक्यम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text

ब्राह्मण्युवाच। 1-172-0x(1006)(7825)
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित्।
न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते॥ 1-172-1(7826)
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः।
अवश्यभाविन्यर्थे वै संतापो नेह विद्यते॥ 1-172-2(7827)
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते।
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च॥ 1-172-3(7828)
एतद्धि परमं नार्याः कार्यं लोके सनातनम्।
प्राणानपि परित्यज्य यद्भर्तुर्हितमाचरेत्॥ 1-172-4(7829)
तच्च तत्र कृतं कर्म तवापीदं सुखावहम्।
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम्॥ 1-172-5(7830)
एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव।
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते॥ 1-172-6(7831)
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि।
कन्या चैका कुमारश्च कृताहमनृणा त्वया॥ 1-172-7(7832)
समर्थः पोषणे चासि सुतयो रक्षणे तथा।
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे॥ 1-172-8(7833)
मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर।
कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम्॥ 1-172-9(7834)
कथं हि विधवाऽनाथा बालपुत्रा विना त्वया।
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि॥ 1-172-10(7835)
अहं कृतावलेपैश्च प्रार्थ्यमानामिमां सुताम्।
अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम्॥ 1-172-11(7836)
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः।
प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम्॥ 1-172-12(7837)
साऽहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः।
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम॥ 1-172-13(7838)
`स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले।
मातापित्रोर्वशे कन्या प्रौढा भर्तृवशे तथा॥ 1-172-14(7839)
अभावे चानयोः पुत्रे खतन्त्रा स्त्री विगर्हिता॥ 1-172-15(7840)
अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत्।
वस्त्रखण्डं घृताक्तं हि यथा संकृष्यते श्वभिः॥' 1-172-16(7841)
कथं तव कुलस्यैकमिमं बालमनागसम्।
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे॥ 1-172-17(7842)
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान्।
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान्॥ 1-172-18(7843)
इमामपि च ते बालामनाथां परिभूय माम्।
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा॥ 1-172-19(7844)
तां चेदहं न दित्सेयं सद्गुणैरुपबृंहिताम्।
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात्॥ 1-172-20(7845)
संप्रेक्षमाणा पुत्रीं ते नानुरूपमिवात्मनः।
अनर्हवशमापन्नामिमां चापि सुतां तव॥ 1-172-21(7846)
अवज्ञाता च लोकेषु तथान्मानमजानती।
अवलिप्तैरैर्ब्रह्मन्मरिष्यामि न संशयः॥ 1-172-22(7847)
तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ।
विनश्येतां न सन्देहो मत्स्याविव जलक्षये॥ 1-172-23(7848)
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम्।
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि॥ 1-172-24(7849)
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः।
ननु ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः॥ 1-172-25(7850)
`अनिष्टमिह पुत्राणां विषये परिवर्तितुम्।
हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती॥ 1-172-26(7851)
मरणं याति या भर्तुस्तद्दत्तजलपायिनी।
भर्तृपादार्पितमनाः सा याति गिरिजापदम्॥ 1-172-27(7852)
गिराजायाः सखी भूत्वा मोदते नगकन्यया।
मितं ददाति हि पिता मितं माता मितं सुतः॥ 1-172-28(7853)
अमितस्य हि दातारं का पतिं नाभिनन्दति।
आश्रमाश्चाग्निसंस्कारा जपहोमव्रतानि च॥ 1-172-29(7854)
स्त्रीणां नैते विधातव्या विना पतिमनिन्दितम्।
क्षमा शौचमनाहारमेतावद्विहितं स्त्रियाः॥' 1-172-30(7855)
परित्यक्तः सुतश्चायं दुहितेयं तथा मया।
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे॥ 1-172-31(7856)
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा।
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः॥ 1-172-32(7857)
तदिदं यच्चिकीर्षामि धर्मं परमसंमतम्।
इष्टं चैव हितं चैव तव चैव कुलस्य च॥ 1-172-33(7858)
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः।
आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम्॥ 1-172-34(7859)
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥ 1-172-35(7860)
दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम्।
सर्वमेतद्विधातव्यं बुधानामेष निश्चयः॥ 1-172-36(7861)
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः।
`उभयोः कोधिको विद्वन्नात्मा चैवाधिकः कुलात्॥ 1-172-37(7862)
आत्मनो विद्यमानत्वाद्भुवनानि चतुर्दश।
विद्यन्ते द्विजशार्दूल आतमा रक्ष्यस्ततस्त्वया॥ 1-172-38(7863)
आत्मन्यविद्यमाने चेदस्य नास्तीह किंचन।
एतज्जगदिदं सर्वमात्मना न समं किल॥' 1-172-39(7864)
स कुरुष्व मया कार्यं तारयात्मानमात्मना।
अनुजानीही मामार्य सुतौ मे परिपालय॥ 1-172-40(7865)
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये।
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि॥ 1-172-41(7866)
निःसंशयं वधः पुंसां स्त्रीणां संशयितो वधः।
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि॥ 1-172-42(7867)
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया।
`त्वच्छुश्रूषणसंभूता कीर्तिश्चाप्यतुला मम।'
त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितं॥ 1-172-43(7868)
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा।
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः॥ 1-172-44(7869)
उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम्।
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव॥ 1-172-45(7870)
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम्।
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने॥ 1-172-46(7871)
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम्।
आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ॥ 1-172-47(7872)
वैशम्पायन उवाच। 1-172-48x(1007)
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत।
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः॥ 1-172-48(7873)
`मैवं वद त्वं कल्याणि तिष्ठ चेह सुमध्यमे।
न तु भार्यां त्यजेत्प्राज्ञः पुत्रान्वापि कदाचन॥ 1-172-49(7874)
विशेषतः स्त्रियं रक्षेत्पुरुषो बुद्धिमानिह।
त्यक्त्वा तु पुरुषो जीवेन्न हातव्यानिमान्सदा।
न वेत्ति कामं धर्मं च अर्थं मोक्षं च तत्त्वतः॥' ॥ 1-172-50(7875)

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः॥ 172 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-172-1 वैद्यस्य विद्यावनः॥ 1-172-25 परा व्युष्टिर्महद्भाग्यम्॥ 1-172-43 त्वत् त्वत्तः प्रसूतिः संततिः। अजीवितम् मरणं॥ द्विसप्तत्यधिकशततमोऽध्यायः॥ 172 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.